Monday, 27 January 2020

आदिभट्ल नारायण दासस्य काशीशतकस्य विश्लेषणात्मकम् अध्ययनम्


This paper was presented at the All–India Oriental Conference held in Nagpur during January 10-12, 2020 and was adjudged as the best paper presented. It is reproduced here with the author's permission

ādibhaṭlanārāyaṇadāsasya kāśīśatakasya viśleṣāṇātmakam adhyayanam

An analytical study of Kasisatakam, a travelogue authored by Adibhatla Narayanadasu

डां. के. वरलक्ष्मीः
उपनिदेशिका
संस्कृत अकादमी, उस्मानियाविश्वविद्यालयः, हैदराबाद, तेलङ्गाणा
varalakshmihari@gmail.com

शोधपत्रसारः

परिचयः – लौकिकसंस्कृतवाङ्मये मुक्तककाव्यानि महत्त्वपूर्णस्थानं वहन्ति। मुक्तककाव्यस्य लक्षणम् अग्निपुराणे उल्लिखितमित्थम् –

   ‘मुक्तकं श्लोकं एवैकश्चमत्कारक्षमः सताम्। अग्निपुराणम् – 337.36

मुक्तककाव्ये चमत्कारक्षमता  प्राधान्यं भजति। मुक्तककाव्यानि शृङ्गाररसप्रधानानि भक्तिरसप्रधानानि स्तोत्रपरकाणि च भवन्ति। मयूरकवेः सूर्यशतकं, बाणस्य चण्डीशतकं, भर्तृहरेः नीतिशतकं, शङ्गारशतकं वैराग्यशतकम् इत्यीदीनि नैकानि मुक्तककाव्यपरम्परायाम् विराजन्ते। शतककाव्ये शतं श्लोकाः भवन्ति। कदाचित् शताधिकाः श्लोकाः अपि भवन्ति। श्रीमदज्जाडादिभट्लनारायणदासेन विरचितं काशीशतकं मुक्तककाव्यपरम्परायामेव अन्तर्भवति। श्रीमदज्जाडादिभट्लनारायणदासः हरिकथापितामहः इति प्रथितः। सः बहुभाषाकोविदः।

आधुनिकरचनासम्प्रदाये ‘Travelogue literature’ यात्रावृत्तम् इति यत् व्यवह्रियते तदेव काशीशतकम् इति निश्चप्रचं वक्तुं शक्यते। यतः  श्रीमदज्जाडादिभट्लनारायणदासः क्रि.श. 1910 तमे वर्षे काशीयात्रां चकार। काशीशतके काशीयात्रायाः वर्णनमेव प्रधानेतिवृत्तम्। काशीक्षेत्रस्य विश्वेश्वरस्य महिमानं वर्णयन् समकालिकसामाजिकस्थितिमपि अक्षरबद्धं चकार कविः। काशीशतकम् इति यात्रावृत्तस्य विश्लेषणात्मकम् अध्ययनं नातिविस्तरेण शोधपत्रेऽस्मिन् प्रस्तूयते।

1.   काव्यप्रकाराः

आधुनिककाले संस्कृतसाहित्यजगति नूतनाः प्रवृत्तयः दरीदृश्यन्ते। महाकाव्यानि, लघुकाव्यानि, खण्डकाव्यानि, मुक्तककाव्यानि, स्तोत्रकाव्यानि, शतककाव्यानीति रचनाप्रवृत्तयः तु परिचिताः। एकाङ्किनाटकानि सूडोकविता हैकुकविता, शतककाव्यानि यात्राकाव्यानि इति अद्यत्वे अन्या काचित् नव्या रचनापरम्परा प्रचलति।

1.1 शतककाव्यानि

निर्दिष्टविषयम् अवलम्ब्य सहृदयहृदयेभ्यः चमत्कारं जनयितुं समर्थं भवति शतककाव्यवाङ्मयम्। नीतिभक्तिवैराग्यविषयान् प्रबोधयितुम् अनुकूलमस्ति शतकवाङ्मयम्। शतकपदभूयिष्ठानि काव्यानि नैकानि संस्कृतसाहित्ये अतीव प्रसिद्धानि। चाणक्यनीतिशतकं, बाणभट्टस्य चण्डीशतकं मयूरस्य सूर्यशतकं भर्तृहरेः नीतिशृङ्गारवैराग्यशतकानि केसरिवेङ्कटनाथस्य अच्युतशतकं गुमानीकवेः गुमानीशतकम् अप्पय्यदीक्षितस्य वैराग्यशतकं, अवतारकवेः ईश्वरशतकं विश्वेश्वरपाण्डेयस्य रोमावलीशतकं गोकुलनाथस्य शिवशतकं जनार्धनभट्टगोस्वामिनः शृङ्गारशतकं भास्कररायस्य श्रीकुमारशतकं सन्निधानं सूर्यनारायणशास्त्रिणः वेङ्कटेश्वरवचनशतकं एस्.टि.जि.वरदाचार्याणां सुमतिवेमनदाशरथिशतकानि शतककाव्यपरम्परायाम् अन्तर्भवन्ति। तस्यां परम्परायामेव उल्लेखनीयार्हम् अस्ति हरिकथापितामहस्य आदिभट्टनारायणदासविरचितं शतकद्वयम्। काशीशतकं रामचन्द्रशतकम् उभयमपि सङ्कलनरूपेण शतकद्वयम् इति नाम्ना पुस्तकं मुद्रापितम्।

1.1.1      यात्राकाव्यानि

आधुनिककाव्यपरम्परायां यात्राकाव्यानि अपि विलसन्ति येषु प्रतिभासम्पन्नाः कविपण्डिताः स्वजीवने कृतायाः यात्रायाः विशेषान् छन्दोमयकाव्यरूपेण उपनिबन्धन्ति। शर्मण्यदेशः सुतरां विभाति थाईदेशविलसम् इति यात्राकाव्यद्वयं डां. सत्यव्रतशास्त्रिणा विरचितम्। ततोऽपि पूर्वमेव आदिभट्टनारायणदासः काशीशतकम् इति यात्राकाव्यमेकं रचयित्वा यात्राकाव्यसम्प्रदायस्य आदिकविः बभूव।

2. यात्राकाव्यं काशीशतकम्

आधुनिकरचनासम्प्रदाये ‘Travelogue literature’ यात्राकाव्यानि इति यः रचनाप्रकारः अस्ति तस्मिन्नेव अन्तर्भवति काशीशतकम् इति निश्चप्रचं वक्तुं शक्यते। यतः  श्रीमदज्जाडादिभट्लनारायणदासः सपरिवारः क्रि.श. 1910 तमे वर्षे काशीयात्रां चकार। काशीशतके काशीयात्रायाः वर्णनमेव प्रधानेतिवृत्तम्। काशीक्षेत्रस्य विश्वेश्वरस्य महिमानं काशीक्षेत्रस्य भौगोलिकस्थितिञ्च वर्णयन् समकालिकसामाजिकस्थितिमपि अक्षरबद्धं चकार कविः।

2.1 कविः हरिकथापितामहः आदिभट्टनारायणदासः

आदिभट्टनारायणदासः क्रि.श. 1864 तमे वर्षे विजयनगरस्थबलिजमण्डलान्तर्गते अज्जाडनामके ग्रामे लब्धजनिः।  बहुभाषावेत्ता बहुग्रन्थकर्त्ता च आन्ध्रप्रदेशस्थविजयनगरे सङ्गीतकलाशालायाः प्रधानाचार्यः आसीत्। तेलुगु-संस्कृत-हिन्दी-वङ्ग-फारसी-आङ्ग्लभाषातल्लजः आदीभट्टनारायणदासः। हरिकथासम्प्रदायस्य प्रचारप्रसारे कृतभूरिपरिश्रमः सः।

2.2 आदिभट्टनारायणस्य संस्कृतरचनाः

बहुभाषावेत्ता बहुग्रन्थकर्त्ता च आदिभट्टनारायणस्य नैकग्रन्थान् रचयामास। तेषु काश्चन संस्कृतरचनाः उमरखय्याम् हरिकथामृतं तारकम् शतकद्वयम् इत्यादयः सन्ति।

3. काशीशतकस्य काव्यतत्त्वानि

काशीयात्रानुभवरूपस्य काशीशतकस्य इतिवृत्तं छन्दोवैशिष्ट्यम् अलङ्कारवैशिष्ट्यं रसवैशिष्ट्यं व्याकरणप्रयोगवैशिष्ट्यं भौगोलिकवर्णनवैशिष्ट्यं सामाजिकवर्णनवैशिष्ट्यञ्चेति काव्यतत्त्वानि क्रमशः नातिविस्तरेणात्र प्रस्तूयन्ते।

3.1 काव्यस्य इतिवृत्तम्

क्रि.श. 1910 तमे वर्षे पञ्चाशद्वर्षदेशीयः  आदिभट्टनारायणदासः धर्मपत्न्या सह काशीयात्रां कृत्वा तत्र प्राप्तं स्वीयानुभवम् एतच्छतकरूपेण निबबन्ध।

शिवरात्रिदिने प्रातस्स्नात्वा गङ्गाजले वयम्।
अतिकष्टेन विश्वेशम् अभिषिच्यागताः पुनः।। का.श.36

नारायणदासवर्यः सपरिवारः यस्मिन् वर्षे काशीयात्रां चकार तस्य वर्षस्य शिवरात्रिपर्व काश्यामेव समाचरदिति प्रमाणयति श्लोकोऽयम्।
काशीक्षेत्रं मुक्तिप्रदायकेषु अयोध्यादिषु सप्तसु प्रधनतमा। तत्र मोक्षप्राप्तये अपेक्षितानि साधनानि नैकानि वर्त्तन्ते। तादृशस्य मुक्तिप्रदायकक्षेत्रस्य महत्त्वं स्वरूपं समृद्धिं सामाजिकस्थितिं भौगोलिकवर्णनं संस्कृतिं प्रकृतिसौन्दर्यञ्च वर्णयामास कविः।

3.2 छन्दोवैशिष्ट्यम्

आदिभट्टनारायणदासः काशीशतकम् इति भक्तिरसप्रपूर्णं यात्राकाव्यम् अनुष्टुप्छन्दसा रचयामास। क्षेमेन्द्रस्य सुवृत्ततिलके उक्तम् अनुष्टुप् नामकस्य छन्दसः लक्षणम्।

पञ्चमं लघु सर्वेषु सप्तमं द्विचतुर्थयोः।
गुरु षष्ठं च सर्वेषामेतच्छ्लोकस्य लक्षणम्।। (सुवृत्ततिलकम् – 1-14,15)
आरम्भे सर्गबन्धस्य कथाविस्तरसङ्ग्रहे
शमोपदेशवृत्तान्ते सन्तः शंसन्त्यनुष्टुभम्।। (सुवृत्ततिलकम् – 3.16)
असङ्ख्यो भेदसंसर्गादनुष्टुप् छन्दसां गणः।
तत्र लक्ष्यानुसारेण श्रव्यतायाः प्रधानता।।
शमोपदेशवृत्तान्ते अनुष्टुभं शंसन्ति सन्तः इति क्षेमेन्द्रः सुवृत्ततिलके अनुष्टुप् नामकस्य छन्दसः प्रयोगवैशिष्ट्यम् उदलिखत्। शमो नाम मनोनिग्रहः इति तत्त्वबोधः।  
शमोपदायकमस्ति अनुष्टुप्छन्दः इत्येव भक्तिरसोपेतं काशीशतकं अनुष्टुप्छन्दोबद्धं चकार कविः।

3.3 अलङ्कारवैशिष्ट्यम्

काव्यतत्त्वेषु अलङ्काराणां प्राधान्यं महत् वर्त्तते। कविः काशीक्षेत्रविशेषान् सुन्दरैः अलङ्कारैः न्यरूपयत्।

3.3.1 उत्प्रेक्षालङ्कारवैशिष्ट्यम् -  सर्वेषु अलङ्कारेषु उत्प्रेक्षा अत्यादरेण कविः प्रयुक्तवान्। कुवलयानन्देन उल्लिखितं तल्लक्षणं यथा

सम्भावना स्यादुत्प्रेक्षा वस्तुहेतुफलात्मना।
उक्तानुक्तास्पदाद्यत्र सिद्धासिद्धास्पदे परे।। कुवलयानन्दः 30
नृन् कैलासं नयन्तीव याति जाह्नव्युदङ्मुखम्।
अनुगङ्गं वाराणसी सौधश्रेण्यर्धचन्द्रवत्।। (का.श. 2)

नरान् कैलासं नयन्ती इव गङ्गानदी उदङ्मुखं प्रवहति। तत्तीरे काशीनगरसौधश्रेणी अर्धचन्द्रवत् विराजते इति श्लोके प्रयुक्तः उत्प्रेक्षालङ्कारः चित्तं चमत्करोति।

काशीपुर्यां सूर्योदयमित्थम् उत्प्रेक्षते कविः
पुनरावृत्तिरहितमार्गं स्वस्मिन्ददन्निव।
उदेति सूर्योऽभिमुखं गङ्गास्नानं प्रकुर्वताम्।। का.श. 4

गङ्गायां जलं शिशिरर्तौ गभीरं निर्मलं पूर्णञ्च भवति। तज्जलं तत्तीरे ध्यानमग्नस्य योगिनः दृष्ट्या सुन्दरतया उपमीयते।
        
गभीरं निर्मलं स्निग्धमापूर्णं भाति जाह्नवी।
असीवरुणयोर्मध्ये शिशिरे योगिदृष्टिवत्।। का.श. 3

3.3.2 उपमालङ्कारप्रयोगवैशिष्ट्यम् – रुचिरैः उपमालङ्कारैरपि कविः काशीवैभवं वर्णयामास।
उपमालङ्कारलक्षणं कुवलयानन्दे उक्तं यथा –

उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः।
हंसीव कृष्ण ते कीर्तिः स्वर्गङ्गामवगाहते।। कुवलयानन्दः - 4

काशीनिवासिनीनाम् अङ्गनानां तनुच्छाया अतिसुषमा। ताः अरुन्धत्या सौदामन्या पाञ्चालिकया च उपमीयन्ते।

                सौधस्याग्रेऽरुन्धतीव मध्ये सौदामनी यथा।
                अधस्तात्पाञ्चालिकेव काश्यां भाति कुलाङ्गना।। का.श. 44

3.3.3 अर्थान्तरन्यासालङ्कारप्रयोगवैशिष्ट्यम् - काशीनगरस्याम्बरतले उत्क्षिप्तं पतङ्गकम् अर्थान्तरन्यासालङ्कारप्रयोगेण  सुन्दरतया वर्णयामास कविः।
कुवलयानन्दोक्तम् अर्थान्तरन्यासालङ्कारलक्षणम्

उक्तिरर्थान्तरन्यासः स्यात्सामान्यविशेषयोः। कुवलयानन्दः
सूत्रेणोत्क्षिप्तमाकाशे वीक्ष्य श्येनः पतङ्गकम्।
प्रहर्तुं तं प्रयतते सहते कः परोन्नतिम्।। का.श. 90

श्येनः आकाशस्थं पतङ्गकं प्रहर्तुं प्रयतते इति विशेषः। परोन्नतिं कः सहते इति सामान्यः। सामान्येन विशेषसमर्थनरूपस्य अर्थान्तरन्यासस्य उदाहरणमयं श्लोकः।

3.4 रसवैशिष्ट्यम्

रसात्मकं काव्यमिति विश्वनाथोक्तिः। रसाः अष्टौ इति भरतः नाट्यशास्त्रे उदलिखत्। शान्तोऽपि नवमरसत्वेन अङ्गीकृतः आलङ्कारिकैः।
                
                शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः।
                बीभत्साद्भुतसंज्ञौ चेत्यष्टौ रसाः स्मृताः।। (ना.शा. 6.16)

रूपकगोस्वामी भक्तिरसामृतसिन्धुरिति ग्रन्थस्य प्रणेता स्वग्रन्थे भक्तिमपि रसत्वेन पर्यगणयत्।

                भक्तिरसस्य प्रस्तुतिरखिलजगन्मङ्गलप्रसङ्गस्य।
                अज्ञेनापि मयाऽस्य क्रियते सुहृदां प्रमोदाय।। (श्री.भ.सिन्धुः पू.भा.6)

भक्तिरसभरितमिदं काशीशतकं काव्यं भक्तिरसतत्त्वानि नैकानि प्रस्तौति। भक्तिः नवधा भवतीति सङ्केतयति कविः। यथा
        
                दिष्ट्या श्रद्धा मानुषेषु केष्वेव परिदृश्यते।
                तस्या नवविधा भक्तिमार्गा अवयवीकृताः।। का.श. 23

श्रवणं कीर्त्तनं स्मरणम् अर्चनं वन्दनं दास्यं सख्यं पादसेवा आत्मनिवेदनं चेति नवविधा भक्तिरुच्यते। काशीविश्वेश्वरं महदेवीं गङ्गां भक्ताग्रेसरान् देवालयाश्च बहुधा वर्णयामास कविः। काशीशतकपठनेन सहृदयहृदयः पाठकः ब्रह्मानन्दसहोदरानन्दं भक्तिरसानन्दं विन्दति इत्यस्मिन् नास्ति अतिशयोक्तिः।

3.5 व्याकरणप्रयोगविशेषाः

काशीशतके नैके विशिष्टाः व्याकरणप्रयोगविशेषाः दरीदृश्यन्ते। सिद्धान्तकौमुदीकाशिकादिव्याकरणग्रन्थेषु यानि विशिष्टानि उदाहरणानि सूत्राणां विवरणात्मकानि दत्तानि वैयाकरणैः तानि यथातथं सन्दर्भानुकूलानि काशीक्षेत्रवर्णनानुकूलानि च व्याकरणशास्त्रतल्लजः कविरयम् अतीवौचित्येन व्याकरणपाण्डित्यप्रतिभया च प्रायुङ्क्त।

         नृन् कैलासं नयन्तीव याति जाह्नव्युदङ्मुखम्।
अनुगङ्गं वाराणसी सौधश्रेण्यर्धचन्द्रवत्।। 2
यस्य चायामः। पा.अ.सू. 2.1.16 सूत्रस्य अनुगङ्गं वाराणसी इति अव्ययीभावसमासस्य उदाहरणम्।  गङ्गायामेन वाराणसीयामः लक्ष्यते।

पारे मध्ये षष्ठ्या वा। पा.अ.सू. 2.1.18 सूत्रस्य मध्येगङ्गमिति उदाहरणमस्ति। पारमध्यशब्दौ षष्ठ्यन्तेन सह वा समस्यते।

महोबुड्डामङ्गलाख्यं महाद्भुतमुपागमत्।
समया कुर्वन्ति पौरा मध्येगङ्गमहर्निशम्।। का.श. 94
मन्यकर्मण्यनादरे विभाषाऽप्राणिषु। पा.अ.सू. 2.3.1 मन्यकर्मणि प्राणिवर्जिते विभाषा चतुर्थी

विभक्तिर्भवति अनादरे गम्यमाने इति सूत्रार्थः। कारकप्रकरणे मन्यकर्मणि चतुर्थीविभक्तिः विकल्पेन विधीयते। तस्य प्रयोगं कविः सन्दर्भानुगुणं चकार।

भागीरथ्यां कृतस्नानस्तीरमञ्चे जपञ्जनः।
तृणाय मन्यते मृत्युं पुण्यं मूर्तीकृतं यथा।।
ध्वाङ्क्षेण क्षेपे। पा.अ.सू. 2.1.42 ध्वाङ्क्षवाचिना सुबन्तेन सह सप्तम्यन्तं सुबन्तं समस्यते तत्पुरुषश्च समासो भवति क्षेपे गम्यमाने। तीर्थे ध्वाङ्क्ष इव तीर्थध्वाङ्क्षः अनवस्थितः इत्यर्थः।

व्याकरणशास्त्रप्रसिद्धान् प्रयोगान् कृत्वा कविः चमत्कारं जनयति।

नापिता याचकाः पुष्पलाविका अनुलेपकाः।
तीर्थध्वाङ्क्षा आगतानां गङ्गातीरे समाश्रिताः।। का.श.14
प्रमाणे द्वयसज्दघ्नञ्मात्रचः। पा.अ.सू. 5.2.37 प्रमाणम् इत्यस्मिन् अर्थे प्रयुज्यमानात्

प्रथमासमर्थात् अस्य इत्यस्मिन् अर्थे द्वयसच् दघ्नञ् तथा मात्रच् प्रत्ययाः भवन्ति इति अर्थः। शिवालयस्थं जलं जानुदघ्नम् अस्तीति कविः शास्त्रप्रसिद्धं प्रयोगं चकार।

शिवालयेभिषेकाम्बु जानुदघ्नं समन्ततः।
विसृष्टवृषभैर्बिल्वपत्रराशिरभक्ष्यत।। का.श. 40

असूर्यललाटयोः दृशितपोः। पा.अ.सू. 3.2.36 इत्यस्य सूत्रस्य विशिष्टः प्रयोगः असूर्यम्पश्याः इति अस्ति। असूर्य ललाट इति एतयोः उपपदयोः दृशितपोः धात्वोः खश्प्रत्ययः भवति।

विराजते सौधमध्येऽसूर्यम्पश्यो महाजनः।
वल्मीकान्तर्वर्तिनीव पाण्डुराजपिपीलिकाः।। का.श.71
यत्र यत्र यदाकाङ्क्षे तत्रतत्र तदाप्नुयात्।
सदा कल्पलतायन्ते काश्यामखिलवीथयः।। का.श.72
गायन्ती भैरवीं प्रातर्मूर्छयन्ती सभासदः।
मोहनास्त्रायते कापि नृत्यन्ती वारसुन्दरी।। का.श. 97

अस्मिन् श्लोके गायन्ती मूर्छयन्ती नृत्यन्ती इति शत्रन्तप्रयोगाः कृताः। अपि च कल्पलतायन्ते मोहनास्त्रायते इति नामधातुप्रयोगाः अपि दृष्टिगोचरीभवन्ति।

प्रसन्नमुखपङ्केजो बद्धपिङ्गशिरोरुहः।
महादेवो यथा तीरे भाति कोऽपि दिगम्बरः।। का.श. 5

अस्मिन् श्लोके प्रसन्नमुखपङ्केजः इति विशिष्टः व्याकरणप्रयोगः अकारि कविना। पङ्के जायते इति पङ्केजम्। सप्तम्यां जनेर्डः। 3.2.97 इति सूत्रेण जनेर्डः। उपपदमतिङ्। 2.2.19 इति तत्पुरुषसमासः। तत्पुरुषे कृति बहुलम्। 6.3.13 इत्यलुक्। पङ्कजम् अथवा पङ्केजम्। मुखमेव पङ्केजम् मुखपङ्केजम्। मयूरव्यंसकादयश्च। 2.1.72 इति तत्पुरुषः। प्रसन्नं मुखपङ्केजं यस्य सः प्रसन्नमुखपङ्केजः। अनेकमन्यपदार्थे। 2.2.24 इति बहुव्रीहिः।
        
पूर्णं काव्यं विशिष्टव्याकरणपदप्रयोगैः परिपूर्णं सत् आह्लादं जनयति।

3.6 काशीवर्णनवैशिष्ट्यम्

काशीक्षेत्रमहिमवर्णनं नैकैः श्लोकैः अवर्णयत् कविः। काशी मुक्तिस्थानं तच्च चतुर्वर्णैः सेव्यते। कविरपि तस्य महिमवर्णनेन धन्यो भवति। (का.श.19)

सर्वक्षेत्रोत्तमा काशी सर्वसम्पत्समन्विता।
प्रत्यक्षकैलासपुरी मुमुक्षूणां निकेतनम्।। का.श.21

3.6.1 विश्वनाथवर्णनम् – काशीशतकं काव्यं विश्वेश्वरस्तुत्या आरभत कविः।
        
संश्रिताभीष्टदं देवं सच्चिदानन्दविग्रहम्।
                समस्तभुवनाधारं काशीविश्वेश्वरं भजे।। का.श.1

समस्तदेवेषु विश्वनाथः विशिष्यते तस्य मन्दिरं स्वर्णगोपुरभूषितञ्चेति कविः स्वभक्तिं प्रकटीचकार।

3.6.2 गङ्गावर्णनम्  गङ्गाप्राशस्त्यं स्तौति कविः। गङ्गास्नानमहत्त्वञ्च प्रस्तौति। गङ्गायां शवदाहवृत्तमपि अक्षरबद्धं चकार कविः। यात्रिकाः पिपीलिकावत् बाहुल्येन गङ्गातीरे सञ्चरन्ति। करधनं दत्त्वा क्षौरकर्म कारयित्वा मणिकर्णिकाघट्टे भक्ताः स्नान्ति। भक्तजनतारिणी गङ्गा बहुधा स्तुता अस्मिन् शतके काव्ये।

                गभीरं निर्मलं स्निग्धमापूर्णं भाति जाह्नवी।
                असीवरुणयोर्मध्ये शिशिरे योगिदृष्टिवत्।। का.श.3

3.6.3 भौगोलिकवर्णनम्

क्रि.श. 1910 तमे वर्षे काशीयात्रां कृतवान् कविः काशीनगरनिर्माणकौशलमपि वर्णयामास। गङ्गानदीं मणिकर्णिकाघट्टं  तीरसमाश्रितान् नापितान् याचकान् पुष्पलाविकान् अनुलेपकान् तीर्थध्वाङ्क्षांश्च वर्णयामास कविः। चतुष्षष्टिः घट्टाः वारणस्यां सन्ति।  गङ्गातीरसमीपे व्यासकाशीति विराजते यां देवेन्द्रप्रभुः पालयति स्म। तस्मिन् काले एव काश्यां अन्तर्लीनप्रणालिकाः आवसथेभ्यः मलिनजलानि गङ्गानदीं नयन्ति स्म। नागरकत्वस्य जन्मभूमिः यतः नार्यः अवकुण्ठनवत्यः पुमांसः उष्णीषभूषिताः। काश्याम् एकत्र घण्टापथाः पाठशालाः विशालानि उपवनानि वाप्यः नैकशिल्पभूषिताः गृहाः च सन्ति। अपरत्र अत्यन्तं सङ्कुचितमार्गाः भवन्ति यत्र परिभ्रमन् नूतनः जनः कष्टम् अनुभवतीति नगरसौन्दर्यं वर्णयामास कविः। काशी तिन्त्रिणीवृक्षसङ्कीर्णा। वेणुगुल्मावृता। समभूमिविराजिता गोधूमसस्यश्यामला। नारिकेलवृक्षाः नैव लक्ष्यन्ते काश्यामिति सुष्ठु काशीनगरभौगोलिकस्थितिं वर्णयामास नारायणदासवर्यः।  (का.श. 28, 31, 33, 35, 52)

3.6.4 सामाजिकवर्णनम् -  पण्डितरविशङ्करः उस्ताद् बिस्मिल्लाखानः विदुषी गिरिजादेवी पण्डितः जोतिक् भट्टाचार्यः किषन् महाराजः रामशङ्करसहायः अशुतोषभट्टाचार्यः इत्यादयः हिन्दुस्थानीसङ्गीतज्ञाः काशीकीर्तिपताकध्वजं धरन्ति। कर्णाटकहिन्दुस्थानीसङ्गीतज्ञः आदिभट्टनारायणदासः सङ्गीतज्ञस्सन् एतानि काशीक्षेत्रगतानि वैशिष्ट्यानि अक्षरबद्धानि चकार।

वारस्त्री नृत्येन जनान् सम्मोहयति। भैरवीरागेण अपरा वारसुन्दरी श्रोत्रानन्दं जनयति। वारयोषितः यात्रिकान् आकर्षन्ति। अत्र वानराः यात्रिकाणां वस्त्रदीनि चोरयन्ति। सत्रेषु अन्नदानं कुर्वन्ति दातारः। छात्रेभ्यः आश्रयं दत्त्वा विद्यादानं प्रोत्साहयन्ति। बौद्धानां यवनानाम् आङ्ग्लेयानाञ्च प्रभावः काश्यामस्ति। अत्र सङ्कुचितस्थले निवसन्ति पौराः इत्यतः गौरवर्णाः भवन्ति। कविः सहजशैल्या ललितललितपदैः काशीनगरस्य सामाजिकस्थितिं विशदीचकार।

3.6.5 काशीसंस्कृतिसम्प्रदायाः

काश्यां हिन्दुस्थानीभाषया व्यवहरन्ति तत्स्थाननिवासिनः। तथैव काशी मधुरपदार्थानां विषये प्रसिद्धिं गता। गव्यपदार्थविशेषाणां विषये तु अतीव प्रसिद्धा सा नगरी। काशीनगर्यां कौशेयवस्त्रं मधुरबदरीफलञ्च प्रशस्तिं गते।

काश्यां देशीयभाषायां सर्वदा भोज्यवस्तुषु।
मर्त्यवेषेषु सङ्गीते सर्वत्र मधुरो रसः।। का.श. 30

काश्यां फाल्गुने मासि शुक्लपक्षे होलीत्युत्सवः आचर्यते। पौर्णम्यां कामदहनं कुर्वन्ति। बुड्डामङ्गलाख्यः उत्सवः अत्र आचार्यते। दिवानिशं पौराः गङ्गायाम् एनम् उत्सवमाचरन्ति। अत्रैव कृष्णः सान्दीपनिमुनेः सकाशे अधीतविद्यः। षट्छास्त्रपारगाः पण्डिताः सन्ति। द्राविडब्राह्मणेभ्यः सदक्षिणम् अन्नं दीयते इति काशीनगरसंस्कृतिसम्प्रदायान् विशदीचकार कविः।

उपसंहारः – विश्वेश्वरस्य गङ्गायाः काश्याश्च काशीगतचारित्रिकांशैः सामाजिकस्थितिवर्णनैः भौगोलिकवर्णनैः संस्कृतिसम्प्रदायवर्णनैश्च नितराम् शतककाव्येषु काशीशतकम् अतिशेते। मुक्तिस्थानं काशीं वर्णयित्वा कविः कृती भवतीति स्वकाव्यरचनाप्रयोजनं नारायणदासवर्यः प्रकटीचकार। धर्मार्थकाममोक्षाः इति चतुर्वर्गफलदायकमस्तीदं काशीशतम्। 

आकरग्रन्थाः

1.    मुदिगोण्डगोपालरेड्डि, 1986, संस्कृतसाहित्यचरित्रम्, मुद्रणम् तेलुगुविश्वविद्यालयः, हैदराबाद्, मूल्यम् रु. 30/-
2.   पुल्लेलश्रीरामचन्द्रः, 1983, क्षेमेन्द्रस्य सुवृत्ततिलकम्, मुद्रणम्, सुरभारतीसमितिः, उस्मानियाविश्वविद्यालयः हैदराबाद्
3.   आदिभट्लनारायणदासः 1914, काशीशतकम्, मुद्रणम् विविऐटि, नम्बूरु, गुण्टूरु, आन्ध्रप्रदेशः
5.   आदिभट्टनारायणदासः (1976) शतकद्वयम्, दासभारतीप्रकाशन,
6.   मन्मोहनघोष, नाट्यशास्त्रम् प्रथमो भागः,दि रायल् एसियाटिक् सोसयिटी आफ् बेङ्गाल् कोलकत्ता
7.   रूपकगोस्वामी, भक्तिरसामृतसिन्धुः श्रीश्यामदासहकीमव्रजगौरवप्रकाशन्, बाग्डुण्डेल, श्रीवृन्दावन
8.   Ramachandra Aiyar T.K. (2011), Kuvalayananda of Appayyadeekshita, published by R.S. Vadhyar & Sons, Kalpathi, Palakkad 678 003.
9.   Srisa Chandra Vasu (2017), The Siddhanta Kaumudi of Bhattoji Dikshita, vol 1  published by Motilal Banarsidass, Delhi, ISBN: 10 - 8120812905 ISBN-13 978-8120812901

No comments:

Post a comment